ॐ नमः शिवाय  |  जय श्री राम  |  हरे कृष्ण
सर्वतोभद्र वेदिका पूजन

सर्वतोभद्र वेदिका पूजन विधि - कर्मकांड भास्कर

मूल स्रोत: पृष्ठ 84–90

सर्वतोभद्र वेदिका पूजन

॥ सर्वतोभद्र वेदिका पूजन ॥ प्रधान वेदी पर अर्थात्‌ सर्वतोभद्र मण्डल पर निम्न मन्त्रों के साथ तैंतीस देवताओं का श्रद्धा-भक्तिपूर्वक आवाहन करना चाहिए प्रत्येक देवता के आवाहन के साथ निर्धारित वर्ग पर अक्षत, पुष्प, सुपाड़ी छोड़ते रहना चाहिए । (१) गणेश (विवेक) पीला ॐ गणानां त्वा गणपति छं हवामहे प्रियाणां त्वा प्रियपति छं हवामहे निधीनां त्वा निधिपति छं हवामहे वसो मम । आहमजानि गर्भधमा त्वमजासि गर्भधम्‌ ।। ॐ गणपतये नमः । आवाहयामि, स्थापयामि, ध्यायामि ॥-२३.१९

(२) गौरी (तपस्या) हरा ॐ आयं गौः पृश्निरक्रमीदसदन्‌ मातरं पुरः । पितरञ्च प्रयन्त्स्वः ॥ ॐ गौर्ये नमः। आवाहयामि, स्थापयामि, ध्यायामि ॥ -३.६ (३) ब्रह्मा (निर्माण) लाल ॐ ब्रह्म जज्ञानं प्रथमं पुरस्ताद्वि सीमतः सुरुचो वेनऽ आवः । स बुध्याऽ उपमाऽ अस्य विष्ठाः सतश्च योनिमसतश्च वः ॥ ॐ ब्रह्मणे नमः। आवाहयामि, स्थापयामि, ध्यायामि ॥ -१३.३ (४) विष्णु (ऐश्वर्य) सफेद ॐ इदं विष्णुर्विचक्रमे त्रेधा नि दधे पदम्‌। समूढमस्य पा छं सुरे स्वाहा ॥ ॐ विष्णवे नमः । आवाहयामि, स्थापयामि, ध्यायामि ॥ - ५.१५ (५) रुद्र (दमन) लाल ॐ नमस्ते रुद्र मन्यवऽ उतो तऽ इषवे नमः । बाहुभ्यामुत ते नमः ॥ ॐ रुद्राय नमः । आवाहयामि, स्थापयामि, ध्यायामि ॥ १६.१ (६) गायत्री (ऋतम्भरा प्रज्ञा) पीला ॐ गायत्री त्रिष्टुब्जगत्यनुष्टुप्पंक्त्या सह । बृहत्युष्णिहा ककुप्सूचीभिः शम्यन्तु त्वा ।। ॐ गायत्र्ये नमः । आवाहयामि, स्थापयामि, ध्यायामि ॥ २३.३३ (७) सरस्वती बुद्धि (शिक्षा) लाल ॐ पावका नः सरस्वती वाजेभिर्वाजिनीवती । यज्ञं वष्टु धियावसुः । ॐ सरस्वत्यै नमः । आवाहयामि, स्थापयामि, ध्यायामि ॥ २०.८४

(८) लक्ष्मी (समृद्धि) सफेद ॐ श्रीश्च ते लक्ष्मीश्च पत्न्यावहोरात्रे पार्श्वे नक्षत्राणि रूपमश्विनौ व्यात्तम्‌। इष्णन्निषाणामुम्मऽइषाण सर्वलोकं म ऽ इषाण । ॐ लक्ष्म्ये नमः। आवाहयामि, स्थापयामि, ध्यायामि ॥ -३१.२२ (९) दुर्गा शक्ति (संगठन) लाल ॐ जातवेदसे सुनवाम सोममरातीयतो नि दहाति वेदः। सनः पर्षदति दुर्गाणि विश्वा नावेव सिन्धुं दुरितात्यग्निः ॥ ॐ दुर्गये नमः। आवाहयामि, स्थापयामि, ध्यायामि ॥ -ऋ० १.९९.१ (१०) पृथ्वी (क्षमा) सफेद ॐ मही द्यौः पृथिवी च नऽ इमं यज्ञं मिमिक्षताम्‌। पिपृतां नो भरीमभिः ॥ ॐ पृथिव्ये नमः । आवाहयामि, स्थापयामि, पूजयामि, ध्यायामि ॥ -८.३२ (११) अग्नि (तेजस्विता) पीला ॐ त्वं नो अग्ने वरुणस्य विद्वान्‌ देवस्य हेडो अव यासिसीष्ठाः । यजिष्ठो वह्वितमः शोशुचानो विश्वा द्वेषा सि प्र मुमुग्ध्यस्मत्‌ । ॐ अग्नये नमः । आवाहयामि, स्थापयामि, ध्यायामि ॥ - २१.३ (१२) वायु (गतिशीलता) सफेद ॐ आ नो नियुद्भिः शतिनीभिरध्वर छं सहस्त्रिणीभिरुप याहि यज्ञम्‌ । वायो अस्मिन्त्सवने मादयस्व यूयं पात स्वस्तिभिः सदा नः ॥ ॐ वायवे नमः । आवाहयामि, स्थापयामि, ध्यायामि ॥ -२७.२८

(१३) इन्द्र (व्यवस्था) लाल ॐ त्रातारमिन्द्रमवितारमिन्द्र छं हवेहवे सुहव छं शूरमिन्द्रम्‌ । हवयामि शक्र पुरुहूतमिन्द्र छं स्वस्ति नो मघवा धात्विन्द्रः । ॐ इन्द्राय नमः । आवाहयामि, स्थापयामि, ध्यायामि ॥ - २०.५० (१४) यम (न्याय) सफेद ॐ सुगंनुपन्थां प्रतिशन्नऽ एहि ज्योतिष्मध्येह्यजरन्नऽआयुः । अपेतु मृत्युममृतं म ऽआगाद्वैवस्वतो नोऽ अभयं कृणोतु । ॐ यमाय नमः । आवाहयामि, स्थापयामि, ध्यायामि ॥ (१५) कुबेर (मितव्ययिता) काला ॐ राजाधिराजाय प्रसह्य साहिने नमो वयं वैश्रवणाय कुर्महे । स मे कामान्‌ कामकामाय महयम्‌। कामेश्वरो वैश्रवणो ददातु । कुबेराय वैश्रवणाय महाराजाय नमः । ॐ कुबेराय नमः। आवाहयामि, स्थापयामि, ध्यायामि ॥ -तै० आ० १.३१ (१६) अश्विनीकुमार (आरोग्य) पीला ॐ अश्विना तेजसा चक्षुः प्राणेन सरस्वती वीर्यम्‌। वाचेन्द्रो बलेनेन्द्राय दधुरिन्द्रयम्‌। ॐ अश्विनीकुमाराभ्यां नमः । आवाहयामि, स्थापयामि, पूजयामि, ध्यायामि ॥ - २०.८० (१७) सूर्य (प्रेरणा) काला ॐ आ कृष्णेन रजसा वर्तमानो निवेशयन्नमृतं मर्त्यं च। हिरण्ययेन सविता रथेना देवो याति भुवनानि पश्यन्‌ ॥ ॐ सूर्याय नमः । आवाहयामि, स्थापयामि, ध्यायामि ॥ -३३.४३; ३४.३१

(१८) चन्द्रमा (शान्ति) लाल ॐ इमं देवा ऽ असपत्नश्सुवध्वं महते क्षत्राय महते ज्येष्ठ्याय महते जानराज्यायेन्द्रस्येन्द्रयाय । इमममुष्य पुत्रममुष्ये पुत्रमस्ये विश छं एष वोऽपी राजा सोमोऽस्माकं ब्राह्मणानां छं राजा । ॐ चन्द्रमसे नमः । आवा०, स्था०, ध्यायामि ॥ -९.४० (१९) मङ्गल (कल्याण) सफेद ॐ अग्निर्मूर्द्धां दिवः ककुत्पतिः पृथिव्या अयम्‌। अपा छं रेता सि जिन्वति ॥ ॐ भौमाय नमः । आवाहयामि, स्थापयामि, ध्यायामि ॥ -३.१२ (२०) बुध (सन्तुलन) हरा ॐ उद्बुध्यस्वाग्ने प्रति जागृहि त्वमिष्टापूर्ते स छं सृजेथामयं च । अस्मिन्त्सधस्थे अध्युत्तरस्मिन्‌ विशे देवा यजमानश्च सीदत ॥ ॐ बुधाय नमः ॥ आवाहयामि, स्थापयामि, ध्यायामि ॥ १५.५४ (२१) बृहस्पति (अनुशासन) पीला ॐ बृहस्पते अति यदर्यो अर्हाद्द्युमद्विभाति क्रतुमज्जनेषु । यदीदयच्छवसऋतप्रजात तदस्मासु द्रविणं धेहि चित्रम्‌ । उपयामगृहीतोऽसि बृहस्पतये त्वेष ते योनिर्बृहस्पतये त्वा । ॐ बृहस्पतये नमः। आवाहयामि, स्थापयामि, ध्यायामि ॥ - ऋ० २.२३.१५;२६.३ (२२) शुक्र (संयम) हरा ॐ अन्नात्परिस्रुतो रसं ब्रह्मणा व्यपिबत्‌ क्षत्रं पयः सोपं प्रजापतिः । ऋतेन सत्यमिन्दियं विपान छं शुक्रमन्धस- ऽइन्द्रस्येन्द्रियमिदं पयोऽमृतं मधु ॥ ॐ शुक्राय नमः । आवाहयामि, स्थापयामि, ध्यायामि ॥ -१९.७५

(२३) शनिश्चर (तितिक्षा) लाल ॐ शन्नो देवीरभिष्टयऽ आपो भवन्तु पीतये । शं योरभिस्रवन्तु न:। ॐ शनिश्चराय नमः । आवाहयामि, स्थापयामि, ध्यायामि ॥ - ३६.१२ (२४) राहु (संघर्ष) पीला ॐ कया नश्चित्रऽआ भुवदूती सदावृधः सखा । कया शचिष्ठया वृता । ॐ राहवे नमः । आवा०, स्था०, ध्यायामि ॥-२७.३९ (२५) केतु (साहस) लाल ॐ केतुं कृण्वन्नकेतवे पेशो मर्या अपेशसे। समुषद्भिरजायथाः ॥ ॐ केतवे नमः । आवाहयामि, स्थापयामि, पूजयामि, ध्यायामि ॥ २९.३७ (२६) गङ्गा (पवित्रता) सफेद ॐ पंच नद्यः सरस्वतीमपि यन्ति सस्रोतसः । सरस्वती तु पंचधा सो देशेऽभवत्सरित्‌॥ ॐ गङ्गायै नमः। आवाहयामि, स्थापयामि, ध्यायामि ॥ - ३४.११ (२७) पितृ (दान) पीला ॐ पितृभ्यः स्वधायिभ्यः स्वधा नमः पितामहेभ्यः स्वधाविभ्यः स्वधा नमः प्रपितामहेभ्यः स्वधायिभ्यः स्वधा नमः। अक्षन्‌ पितरोऽमीमदन्त पितरोऽतीतृपन्त पितरः पितरः शुन्धध्वम् ॥ ॐ पितृभ्यो नमः। आवाहयामि, स्थापयामि, पूजयामि, ध्यायामि ॥ -१९.३६ (२८) इन्द्राणी (श्रमशीलता) सफेद ॐ अदित्यै रास्नाऽसीन्द्राण्या उष्णीषः । पूषासि घर्माय दीष्व ॥ ॐ इन्द्राण्यै नमः । आवाहयामि, स्थापयामि, ध्यायामि ॥ - ३८.३

(२९) रुद्राणी (वीरता) काला ॐ या ते रुद्र॒ शिवातनूरघोराऽ पापकाशिनी । तया नस्तन्वा शन्तमया गिरिशन्ताभिचाकशीहि ॥ ॐ रुद्राण्यै नमः । आवाहयामि, स्थापयामि, ध्यायामि ॥ -१६.२ (३०) ब्रह्माणी (नियमितता) पीला ॐ इन्द्रा याहि धियेषितो विप्रजूतः सुतावतः । उप ब्रह्माणि वाघतः । ॐ ब्रह्माण्यै नमः। आवाहयामि, स्थापयामि, ध्यायामि ॥ - २०.८८ (३१) सर्प (धैर्य) काला ॐ नमोऽस्तु सर्पेभ्यो ये के च पृथिवीमनु । ये अन्तरिक्षे ये दिवि तेभ्यः सर्पेभ्यो नमः। ॐ सर्पेभ्यो नमः । आवाहयामि, स्थापयामि, ध्यायामि ॥ १३.६ (३२) वास्तु (कला) हरा ॐ वास्तोष्यते प्रति जानीह्यस्मान्त्स्वावेशो अनमीवो भवा नः । यत्त्वेमहे प्रतितन्नो जुषस्व शं नो भव द्विपदे शं चतुष्पदे ॥ ॐ वास्तुपुरुषाय नमः। आवाहयामि, स्थापयामि, पूजयामि, ध्यायामि ॥ -ऋ० ७.५४.१ (३३) आकाश (विशालता) नीला ॐ या वां कशा मधुमत्यश्विना सूनृतावती। तया यज्ञं मिमिक्षतम्‌। उपयामगृहीतोऽस्यश्विभ्यां त्वेष ते योनिर्माध्वीभ्यां त्वा । ॐ आकाशाय नमः। आवाहयामि, स्थापयामि, ध्यायामि ॥ -७.११