ॐ नमः शिवाय  |  जय श्री राम  |  हरे कृष्ण
स्तोत्ररुद्रयामल तंत्रसंस्कृत + हिन्दी

ज्ञानमार्गोक्त पंचमकार स्तोत्रम्‌

पंचमकारज्ञानमार्गरुद्रयामल

मूल मंत्र

पार्वत्युवाच—
देवदेव जगन्नाथ ! कृपाकर ! मयि प्रभो !
आगमोक्त-मकारांश्च ज्ञानमार्गेण ब्रूहि मे ॥१॥

ईश्वर उवाच—
कलाः सप्तदश प्रोक्ता अमृतं स्राव्यते शशी ।
प्रथमा सा विज्ञानीयादितरे मद्यपायिनः ॥२॥
कर्माकर्मपशून् हत्वा ज्ञानखड्गेन चैव हि ।
द्वितीयं विन्दते येन इतरे मांसभक्षकाः ॥३॥
मनोमीनं तृतीयं च हत्वा संकल्प-कल्पनाः ।
स्वरूपाकार वृत्तिश्च शुद्धं मीनं तदुच्यते ॥४॥
चतुर्थं भक्ष्यभोज्यं न--भक्ष्यमिन्द्रिय-निग्रहम् ।
सा चतुर्थी विज्ञानीयादितरे भ्रष्टकारकाः ॥५॥
हंसः सोऽहं शिवः शक्तिद्राव आनन्दनिर्भराः ।
विज्ञेया पञ्चमीतीदमितरे तिर्यगामिनः ॥६॥
स द्रावश्चक्षुः-पात्रेण पूज्यते यत्र उन्मनी ।
विद्युल्लेखाशिवेकेमां साध्यन्ते देवसाधकाः ॥७॥
पूजकस्तन्मयानन्दः पूज्य-पूजकवर्जितः ।
स्वसंवेद्य-महानन्दस्तन्मयं पूज्यते सदा ॥८॥
॥ इति श्रीरुद्रयामले उमामहेश्वरसंवादे पंचमकारस्तोत्रं सम्पूर्णम्‌ ॥

अर्थ एवं भावार्थ

PDF page 82 contains explanatory prose before the stotra; not rewritten.

साधना विधि

इस स्तोत्र का भावात्मक स्मरण करें।

प्रयोग — कब और कहाँ

  • जहां पंचमकार समर्पण तथा सेवन का संकेत है वहां इस स्तोत्र का भावात्मक स्मरण करें।