इन्द्राक्षी कवच स्तोत्ररुद्रयामल तंत्रहिन्दी
माँ इन्द्राक्षी कवच स्तोत्र विनियोग न्यास ध्यान और पाठ -रुद्रयामल तंत्र
श्रीदेवता✦ इन्द्राक्षी दुर्गा
दुर्गा साधनाइन्द्राक्षी दुर्गाकवच स्तोत्ररक्षा कवचरुद्रयामल तंत्र
तंत्र संदर्भ
स्रोत में इन्द्राक्षी-दुर्गा आराधना के बाद 'इन्द्राक्षी कवच स्तोत्रम्' में विनियोग, न्यास, ध्यान और कवच पाठ दिया गया है।
मूल मंत्र
इन्द्राक्षी कवच स्तोत्रम् विनियोग ॐ अस्य श्रीइन्द्राक्षीकवचस्तोत्रमहामन्त्रस्य शचीपुरन्दर ऋषिः अनुष्टुप् छन्दः । इन्द्राक्षी दुर्गा देवता । लक्ष्मीर्बीजम् । भुवनेश्वरी शक्तिः, भवानीति कीलकम्, मम इन्द्राक्षीप्रसादसिद्ध्यर्थे जपे विनियोगः । न्यास ॐ इन्द्राक्षीत्यङ्गुष्ठाभ्यां नमः । ॐ महालक्ष्मीरिति तर्जनीभ्यां नमः । ॐ माहेश्वरीति मध्यमाभ्यां नमः । ॐ अम्बुजाक्षीत्यनामिकाभ्यां नमः । ॐ कात्यायनीति कनिष्ठिकाभ्यां नमः । ॐ कौमारीति करतलकरपृष्ठाभ्यां नमः । ॐ इन्द्राक्षीति हृदयाय नमः । ॐ महालक्ष्मीरिति शिरसे स्वाहा । ॐ माहेश्वरीति शिखाय वषट् । ॐ अम्बुजाक्षीति कवचाय हुम् । ॐ कात्यायनीति नेत्रत्रयाय वौषट् । ॐ कौमारीत्यस्त्राय फट् । ॐ भूर्भुवः स्वरोमिति दिग्बन्धः । भगवती इन्द्राक्षी का ध्यान देवानां दशभिः शतैः परिवृतामत्युग्रचर्माम्बरां, हेमाभां महतीं विलम्बितशिखामामुक्तकेशान्विताम् । घण्टामण्डितपादपद्मयुगलां नागेन्द्रकुम्भस्तनी- मिन्द्राक्षीं परिचिन्तयामि मनसा कल्पोक्तसिद्धिप्रदाम् ॥ इन्द्राक्षीं द्विभुजां देवीं पीतवस्त्रद्वयान्विताम् । वामहस्ते वज्रधरां दक्षिणेन वरप्रदाम् ॥ इन्द्रादिभिः सुरवन्द्यां वन्दे शंकरवल्लभाम् । एवं ध्यात्वा महादेवीं जपेत् सर्वार्थसिद्धये ॥ इन्द्राक्षीं नौमि युवतीं नानालङ्कारभूषिताम् । प्रसन्नवदनाम्भोजामप्सरोगणसेविताम् ॥ इन्द्र उवाच कवच पाठ इन्द्राक्षी पूर्वतः पातु पात्वाग्नेय्यां दशेश्वरी । कौमारी दक्षिणे पातु नैर्ऋत्यां पातु पार्वती ॥ वाराही पश्चिमे पातु वायव्ये नारसिंह्यपि । उदीच्यां कालरात्री मामैशान्यां सर्वशक्तयः ॥ भैरवीं सदा पातु पात्वधो वैष्णवी सदा । एवं दश दिशो रक्षेत् सर्वाङ्गं भुवनेश्वरी ॥
बीज मंत्र
लक्ष्मीभुवनेश्वरीभवानी
साधना विधि
स्रोत के अनुसार इस इन्द्राक्षी कवच स्तोत्र में पहले विनियोग करना है। फिर न्यास करके भगवती इन्द्राक्षी का ध्यान करना है और उसके बाद कवच पाठ करना है।
प्रयोग — कब और कहाँ
- इन्द्राक्षी कवच स्तोत्र पाठ
- इन्द्राक्षीप्रसादसिद्ध्यर्थ जप
- न्यास
- भगवती इन्द्राक्षी ध्यान
- दश दिशाओं की रक्षा
लाभ
- इन्द्राक्षीप्रसादसिद्धि
- सर्वार्थसिद्धि
- दश दिशाओं की रक्षा
- सर्वाङ्ग रक्षा
- कवच पाठ
मूल पाठ (तंत्र से उद्धरण)
इन्द्राक्षी कवच स्तोत्रम् विनियोग--ॐ अस्य श्रीइन्द्राक्षीकवचस्तोत्रमहामन्त्रस्य शचीपुरन्दर ऋषिः अनुष्टुप् छन्दः । इन्द्राक्षी दुर्गा देवता । लक्ष्मीर्बीजम् । भुवनेश्वरी शक्तिः, भवानीति कीलकम्, मम इन्द्राक्षीप्रसादसिद्ध्यर्थे जपे विनियोगः । न्यास--ॐ इन्द्राक्षीत्यङ्गुष्ठाभ्यां नमः । ॐ महालक्ष्मीरिति तर्जनीभ्यां नमः । ॐ माहेश्वरीति मध्यमाभ्यां नमः । ॐ अम्बुजाक्षीत्यनामिकाभ्यां नमः । ॐ कात्यायनीति कनिष्ठिकाभ्यां नमः । ॐ कौमारीति करतलकरपृष्ठाभ्यां नमः । ॐ इन्द्राक्षीति हृदयाय नमः । ॐ महालक्ष्मीरिति शिरसे स्वाहा । ॐ माहेश्वरीति शिखाय वषट् । ॐ अम्बुजाक्षीति कवचाय हुम् । ॐ कात्यायनीति नेत्रत्रयाय वौषट् । ॐ कौमारीत्यस्त्राय फट् । ॐ भूर्भुवः स्वरोमिति दिग्बन्धः । भगवती इन्द्राक्षी का ध्यान देवानां दशभिः शतैः परिवृतामत्युग्रचर्माम्बरां, हेमाभां महतीं विलम्बितशिखामामुक्तकेशान्विताम् । घण्टामण्डितपादपद्मयुगलां नागेन्द्रकुम्भस्तनी- मिन्द्राक्षीं परिचिन्तयामि मनसा कल्पोक्तसिद्धिप्रदाम् ॥ इन्द्राक्षीं द्विभुजां देवीं पीतवस्त्रद्वयान्विताम् । वामहस्ते वज्रधरां दक्षिणेन वरप्रदाम् ॥ इन्द्रादिभिः सुरवन्द्यां वन्दे शंकरवल्लभाम् । एवं ध्यात्वा महादेवीं जपेत् सर्वार्थसिद्धये ॥ इन्द्राक्षीं नौमि युवतीं नानालङ्कारभूषिताम् । प्रसन्नवदनाम्भोजामप्सरोगणसेविताम् ॥ इन्द्र उवाच कवच पाठ-- इन्द्राक्षी पूर्वतः पातु पात्वाग्नेय्यां दशेश्वरी । कौमारी दक्षिणे पातु नैर्ऋत्यां पातु पार्वती ॥ वाराही पश्चिमे पातु वायव्ये नारसिंह्यपि । उदीच्यां कालरात्री मामैशान्यां सर्वशक्तयः ॥ भैरवीं सदा पातु पात्वधो वैष्णवी सदा । एवं दश दिशो रक्षेत् सर्वाङ्गं भुवनेश्वरी ॥
[object Object]