ॐ नमः शिवाय  |  जय श्री राम  |  हरे कृष्ण
बगलामुखी सिद्ध स्तोत्ररुद्रयामल तंत्रहिन्दी

माँ बगलामुखी शत्रु स्तम्भन सिद्ध स्तोत्र और पाठ विधि -रुद्रयामल तंत्र

श्रीदेवताश्री बगलामुखी

बगलामुखी साधनादशमहाविद्या साधनासिद्ध स्तोत्रशत्रु स्तम्भनरुद्रयामल तंत्र

तंत्र संदर्भ

स्रोत में '८. माता बगलामुखी की आराधना' के अंतर्गत '(ग) श्रीबगलामुखीस्तोत्रम्' दिया गया है।

मूल मंत्र

(ग) श्रीबगलामुखीस्तोत्रम्

विनियोग

अस्य श्रीबगलामुखीस्तोत्रस्य नारदऋषिः श्रीबगलामुखीदेवता मम सन्निहितानां विरोधिनां वाङ्मुखपदबुद्धीनां स्तम्भनार्थं विनियोगः ।

मध्ये सुधाब्धिमणिमण्डपरत्नवेद्यां,
सिंहासनोपरिगतां परिपीतवर्णाम् ।
पीताम्बराभरणमाल्यविभूषिताङ्गीं,
देवीं भजामि धृतमुद्गरवैरिजिह्वाम् ॥१॥

जिह्वाग्रमादाय करेण देवी, वामेन शत्रून् परिपीडयन्तीम् ।
गदाभिघातेन च दक्षिणेन, पीताम्बराढ्यां द्विभुजां नमामि ॥२॥

चलत्कनककुण्डलोल्लसितचारुगण्डस्थलां,
लसत्कनकचम्पकद्युतिमदिन्दु-विम्बाननाम् ।
गदाहत-विपक्षकां कलितलोलजिह्वाञ्चलां,
स्मरामि बगलामुखीं विमुखवाङ्मुखस्तम्भिनीम् ॥३॥

पीयूषोदधिमध्यचारुविलसद् रक्तोत्पले मण्डपे,
सत्सिंहासनमौलिपातितरिपुं प्रेतासनाध्यासिनीम् ।
स्वर्णाभां करपीडितारिरसनां भ्राम्यद्गदां विभ्रमा-
मित्थं ध्यायति यान्ति तस्य विलयं सद्योऽथ सर्वापदः ॥४॥

देवि त्वच्चरणाम्बुजार्चनकृते यः पीतपुष्पाञ्जलिं,
भक्त्या वामकरे निधाय च मनुं मन्त्री मनोज्ञाक्षरम् ।
पीठ-ध्यानपरोऽथ कुम्भकवशाद् बीजं स्मरेत् पार्थिवं,
तस्यामित्रमुखस्य वाचि हृदये जाड्यं भवेत् तत्क्षणात् ॥५॥

वादी मूकति रङ्कति क्षितिपतिर्वैश्वानरः शीतति,
क्रोधी शाम्यति दुर्जनः सुजनति क्षिप्रानुगः खञ्जति ।
गर्वी खर्वति सर्वविच्च जडति त्वद्यन्त्रणायन्त्रितः,
श्रीनित्ये बगलामुखि प्रतिदिनं कल्याणि तुभ्यं नमः ॥६॥

मन्त्रस्तावदलं विपक्षदलनं स्तोत्रं पवित्रं च ते,
यन्त्रं वादिनियन्त्रणं त्रिजगतां जैत्रं च चित्रं च ते ।
मातः श्रीबगलेति नाम ललितं यस्यास्ति जन्तोर्मुखे,
त्वन्नामग्रहणेन संसदि मुखस्तम्भो भवेद् वादिनाम् ॥७॥

दुष्टस्तम्भनमुग्रविघ्नशमनं दारिद्र्य-विद्रावणं,
भूभृद्भीशमनं चला-मृगदृशां चेतः समाकर्षणम् ।
सौभाग्यैकनिकेतनं समदृशः कारुण्यपूर्णामृतं,
मृत्योर्मारणमाविरस्तु पुरतो मातस्त्वदीयं वपुः ॥८॥

मातर्भञ्जय मद्विपक्षिवदनं जिह्वाञ्चलं कीलय,
ब्राह्मीं मुद्रय नाशयाशु धिषणामुग्रां गतिं स्तम्भय ।
शत्रूंश्चूर्णय देवि तीक्ष्णगदया गौराङ्गि पीताम्बरे,
विघ्नौघं बगले हर प्रणमतां कारुण्यपूर्णेक्षणे ॥९॥

मातर्भैरवि भद्रकालि विजये वाराहि विश्वाश्रये,
श्रीविद्ये समये महेशि बगले कामेशि रामे रमे ।
मातङ्गि त्रिपुरे परात्परतरे स्वर्गापवर्गप्रदे,
दासोऽहं शरणागतः करुणया विश्वेश्वरि त्राहि माम् ॥१०॥

संरम्भे चौरसङ्घे प्रहरणसमये बन्धने वारिमध्ये,
विद्यावादे विवादे प्रकुपितनृपतौ दिव्यकाले निशायाम् ।
वश्ये वा स्तम्भने वा रिपुवधसमये निर्जने वा वने वा,
गच्छंस्तिष्ठंस्त्रिकालं यदि पठति शिवं प्राप्नुयादाशु धीरः ॥११॥

नित्यं स्तोत्रमिदं पवित्रमिह यो देव्याः पठत्यादराद्,
धृत्वा यन्त्रमिदं तथैव समरे बाहौ करे वा गले ।
राजानोऽप्यरयो मदान्धकरिणः सर्पा मृगेन्द्रादिका-
स्ते वै यान्ति विमोहिता रिपुगणा लक्ष्मीः स्थिराः सिद्धयः ॥१२॥

त्वं विद्या परमा त्रिलोकजननी विघ्नौघसंछेदिनी,
योषाकर्षणकारिणी त्रिजगतामानन्दसंवर्धिनी ।
दुष्टोच्चाटनकारिणी जनमनः सम्मोहसन्दायिनी,
जिह्वाकीलनभैरवी विजयते ब्रह्मादिमन्त्रो यथा ॥१३॥

विद्यालक्ष्मीः सर्वसौभाग्यमायुः पुत्रैः पौत्रैः सर्वसाम्राज्यसिद्धिः ।
मानं भोगो वश्यमारोग्य सौख्यं, प्राप्तं तत् तद् भूतलेऽस्मिन्नरेण ॥१४॥

यत्कृतं जपसन्नाहं गदितं परमेश्वरि ।
दुष्टानां निग्रहार्थाय तद्गृहाण नमोऽस्तु ते ॥१५॥

ब्रह्मास्त्रमिति विख्यातं त्रिषु लोकेषु विश्रुतम् ।
गुरुभक्ताय दातव्यं न देयं यस्य कस्यचित् ॥१६॥

पीताम्बरां द्विभुजां च त्रिनेत्रां गात्रकोज्ज्वलाम् ।
शिलामुद्गरहस्तां च स्मरेत् तां बगलामुखीम् ॥१७॥

साधना विधि

स्रोत के अनुसार यह रुद्रयामलोक्त सिद्धस्तोत्र अत्यन्त महत्त्वपूर्ण है। इसका त्रिकाल अथवा रात्रिकाल में पाठ करने से शत्रुस्तम्भन और मुकदमा, अन्य वाद विवाद आदि में विजय प्राप्त होती है। १७ दिन तक प्रतिदिन १७ पाठ करने से इसका पुरश्चरण होता है। बगलामुखी के भैरव महामृत्युंजय हैं; अतः उस मन्त्र का दशांश जप करने से शीघ्र लाभ होता है।

प्रयोग — कब और कहाँ

  • शत्रुस्तम्भन
  • मुकदमा और वाद-विवाद में विजय
  • त्रिकाल पाठ
  • रात्रिकाल पाठ
  • १७ दिन तक प्रतिदिन १७ पाठ
  • पुरश्चरण

लाभ

  • शत्रुस्तम्भन
  • मुकदमे में विजय
  • वाद-विवाद में विजय
  • विरोधियों की वाणी, मुख, पद और बुद्धि का स्तम्भन
  • शीघ्र लाभ

मूल पाठ (तंत्र से उद्धरण)

एक महत्त्वपूर्ण सिद्धस्तोत्र यहां सुविधा के लिए प्रस्तुत है। (ग) श्रीबगलामुखीस्तोत्रम् विनियोग--अस्य श्रीबगलामुखीस्तोत्रस्य नारदऋषिः श्रीबगलामुखीदेवता मम सन्निहितानां विरोधिनां वाङ्मुखपदबुद्धीनां स्तम्भनार्थं विनियोगः । मध्ये सुधाब्धिमणिमण्डपरत्नवेद्यां, सिंहासनोपरिगतां परिपीतवर्णाम् । पीताम्बराभरणमाल्यविभूषिताङ्गीं, देवीं भजामि धृतमुद्गरवैरिजिह्वाम् ॥१॥ जिह्वाग्रमादाय करेण देवी, वामेन शत्रून् परिपीडयन्तीम् । गदाभिघातेन च दक्षिणेन, पीताम्बराढ्यां द्विभुजां नमामि ॥२॥ चलत्कनककुण्डलोल्लसितचारुगण्डस्थलां, लसत्कनकचम्पकद्युतिमदिन्दु-विम्बाननाम् । गदाहत-विपक्षकां कलितलोलजिह्वाञ्चलां, स्मरामि बगलामुखीं विमुखवाङ्मुखस्तम्भिनीम् ॥३॥ पीयूषोदधिमध्यचारुविलसद् रक्तोत्पले मण्डपे, सत्सिंहासनमौलिपातितरिपुं प्रेतासनाध्यासिनीम् । स्वर्णाभां करपीडितारिरसनां भ्राम्यद्गदां विभ्रमा- मित्थं ध्यायति यान्ति तस्य विलयं सद्योऽथ सर्वापदः ॥४॥ देवि त्वच्चरणाम्बुजार्चनकृते यः पीतपुष्पाञ्जलिं, भक्त्या वामकरे निधाय च मनुं मन्त्री मनोज्ञाक्षरम् । पीठ-ध्यानपरोऽथ कुम्भकवशाद् बीजं स्मरेत् पार्थिवं, तस्यामित्रमुखस्य वाचि हृदये जाड्यं भवेत् तत्क्षणात् ॥५॥ वादी मूकति रङ्कति क्षितिपतिर्वैश्वानरः शीतति, क्रोधी शाम्यति दुर्जनः सुजनति क्षिप्रानुगः खञ्जति । गर्वी खर्वति सर्वविच्च जडति त्वद्यन्त्रणायन्त्रितः, श्रीनित्ये बगलामुखि प्रतिदिनं कल्याणि तुभ्यं नमः ॥६॥ मन्त्रस्तावदलं विपक्षदलनं स्तोत्रं पवित्रं च ते, यन्त्रं वादिनियन्त्रणं त्रिजगतां जैत्रं च चित्रं च ते । मातः श्रीबगलेति नाम ललितं यस्यास्ति जन्तोर्मुखे, त्वन्नामग्रहणेन संसदि मुखस्तम्भो भवेद् वादिनाम् ॥७॥ दुष्टस्तम्भनमुग्रविघ्नशमनं दारिद्र्य-विद्रावणं, भूभृद्भीशमनं चला-मृगदृशां चेतः समाकर्षणम् । सौभाग्यैकनिकेतनं समदृशः कारुण्यपूर्णामृतं, मृत्योर्मारणमाविरस्तु पुरतो मातस्त्वदीयं वपुः ॥८॥ मातर्भञ्जय मद्विपक्षिवदनं जिह्वाञ्चलं कीलय, ब्राह्मीं मुद्रय नाशयाशु धिषणामुग्रां गतिं स्तम्भय । शत्रूंश्चूर्णय देवि तीक्ष्णगदया गौराङ्गि पीताम्बरे, विघ्नौघं बगले हर प्रणमतां कारुण्यपूर्णेक्षणे ॥९॥ मातर्भैरवि भद्रकालि विजये वाराहि विश्वाश्रये, श्रीविद्ये समये महेशि बगले कामेशि रामे रमे । मातङ्गि त्रिपुरे परात्परतरे स्वर्गापवर्गप्रदे, दासोऽहं शरणागतः करुणया विश्वेश्वरि त्राहि माम् ॥१०॥ संरम्भे चौरसङ्घे प्रहरणसमये बन्धने वारिमध्ये, विद्यावादे विवादे प्रकुपितनृपतौ दिव्यकाले निशायाम् । वश्ये वा स्तम्भने वा रिपुवधसमये निर्जने वा वने वा, गच्छंस्तिष्ठंस्त्रिकालं यदि पठति शिवं प्राप्नुयादाशु धीरः ॥११॥ नित्यं स्तोत्रमिदं पवित्रमिह यो देव्याः पठत्यादराद्, धृत्वा यन्त्रमिदं तथैव समरे बाहौ करे वा गले । राजानोऽप्यरयो मदान्धकरिणः सर्पा मृगेन्द्रादिका- स्ते वै यान्ति विमोहिता रिपुगणा लक्ष्मीः स्थिराः सिद्धयः ॥१२॥ त्वं विद्या परमा त्रिलोकजननी विघ्नौघसंछेदिनी, योषाकर्षणकारिणी त्रिजगतामानन्दसंवर्धिनी । दुष्टोच्चाटनकारिणी जनमनः सम्मोहसन्दायिनी, जिह्वाकीलनभैरवी विजयते ब्रह्मादिमन्त्रो यथा ॥१३॥ विद्यालक्ष्मीः सर्वसौभाग्यमायुः पुत्रैः पौत्रैः सर्वसाम्राज्यसिद्धिः । मानं भोगो वश्यमारोग्य सौख्यं, प्राप्तं तत् तद् भूतलेऽस्मिन्नरेण ॥१४॥ यत्कृतं जपसन्नाहं गदितं परमेश्वरि । दुष्टानां निग्रहार्थाय तद्गृहाण नमोऽस्तु ते ॥१५॥ ब्रह्मास्त्रमिति विख्यातं त्रिषु लोकेषु विश्रुतम् । गुरुभक्ताय दातव्यं न देयं यस्य कस्यचित् ॥१६॥ पीताम्बरां द्विभुजां च त्रिनेत्रां गात्रकोज्ज्वलाम् । शिलामुद्गरहस्तां च स्मरेत् तां बगलामुखीम् ॥१७॥ रुद्रयामलोक्त यह सिद्धस्तोत्र अत्यन्त महत्त्वपूर्ण है। इसका त्रिकाल अथवा रात्रिकाल में पाठ करने से शत्रुस्तम्भन और मुकदमा, अन्य वाद विवाद आदि में विजय अवश्य प्राप्त होती है। १७ दिन तक प्रतिदिन १७ पाठ करने से इसका पुरश्चरण होता है। बगलामुखी के भैरव महामृत्युंजय हैं। अतः उस मन्त्र का दशांश जप करने से शीघ्र लाभ होता है।

[object Object]