ॐ नमः शिवाय  |  जय श्री राम  |  हरे कृष्ण
ताराष्टक स्तोत्ररुद्रयामल तंत्रहिन्दी

माँ नीलसरस्वती ताराष्टक स्तोत्र विद्या बुद्धि और वैभव प्राप्ति -रुद्रयामल तंत्र

श्रीदेवताश्रीनीलसरस्वती / भगवती तारा

तारा उपासनानीलसरस्वती स्तोत्रशक्ति साधनारुद्रयामल तंत्र

तंत्र संदर्भ

स्रोत में भगवती तारा की उपासना के अंतर्गत रुद्रयामल में वर्णित तारा-पंचांग और तारास्तोत्र आदि का उल्लेख करके श्रीनीलसरस्वती स्तोत्र दिया गया है।

मूल मंत्र

(ख) श्रीनीलसरस्वती स्तोत्र

मातर्नीलसरस्वति प्रणमतां सौभाग्य-सम्पत्प्रदे,
प्रत्यालीढपदस्थिते शवहृदि स्मेराननाम्भोरुहे।
फुल्लेन्दीवरलोचने त्रिनयने कर्त्री कपालोत्पले,
खड्गञ्चादधती त्वमेव शरणं त्वामीश्वरीमाश्रये॥१॥

वाचामीश्वरि भक्तकल्पलतिके सर्वार्थसिद्धीश्वरि,
गद्य-प्राकृत-पद्यजातरचनासर्वार्थसिद्धिप्रदे।
नीलेन्दीवरलोचनत्रययुते कारुण्यवारांनिधे,
सौभाग्यामृतवर्धनेन कृपया सिञ्च त्वमस्मादृशम्॥२॥

खर्वे गर्वसमूहपूरिततनौ सर्पादिवेषोज्ज्वले,
व्याघ्रत्वक्परिवीतसुन्दरकटिव्याधूतघण्टाङ्किते।
सद्यः कृत्तगलद्रजः परिमिलन्मुण्डद्वयी-मूर्धज-
ग्रन्थिश्रेणि-नृमुण्डदामललिते भीमे भयं नाशय॥३॥

मायानङ्कुविकाररूपललना बिन्द्वर्धचन्द्रात्मिके,
हूँ फट्कारमयि त्वमेव शरणं मन्त्रात्मिके मादृशः।
मूर्तिस्ते जननि त्रिधामघटिता स्थूलातिसूक्ष्मा परा,
वेदानां नहि गोचरा कथमपि प्राज्ञैर्नुतामाश्रये॥४॥

त्वत्पादाम्बुजसेवया सुकृतिनो गच्छन्ति सायुज्यतां,
तस्याः श्रीपरमेश्वरत्रिनयनब्रह्मादिसाम्यात्मनः।
संसाराम्बुधिमज्जनेऽपटुतनुर्देवेन्द्रमुख्यान् सुरान्,
मातस्त्वत्पदसेवने हि विमुखान् किं मन्दधीः सेवते॥५॥

मातस्त्वत्पदपङ्कजद्वयरजो-मुद्राङ्ककोटीरिण-
स्ते देवा जयसङ्करे विजयिनो निःशङ्कमङ्के गताः।
देवोऽहं भुवने न मे सम इति स्पर्धां वहन्तः परा-
स्तत्तुल्यां नियतं यथाशु चिरं नाशं व्रजन्ति स्वयम्॥६॥

त्वन्नामस्मरणात् पलायनपरा द्रष्टुं च शक्ता न ते,
भूतप्रेतपिशाचराक्षसगणा यक्षाश्च नागाधिपाः।
दैत्या दानवपुङ्गवाश्च खचरा व्याघ्रादिका जन्तवो,
डाकिन्यः कुपितान्तकश्च मनुजो मातः क्षणं भूतले॥७॥

लक्ष्मीः सिद्धगणाश्च पादुकमुखाः सिद्धास्तथा वैरिणां,
स्तम्भश्चापि वराङ्गने गजघटास्तम्भस्तथा मोहनम्।
मातस्त्वत्पदसेवया खलु नृणां सिध्यन्ति ते ते गुणाः,
क्लान्तः कान्तमनोज्ञ एव भवति क्षुद्रोऽपि वाचस्पतिः॥८॥

ताराष्टकमिदं पुण्यं भक्तिमान् यः पठेन्नरः,
प्रातर्मध्याह्नकाले च सायाह्ने नियतः शुचिः॥९॥
लभते कवितां विद्यां सर्वशास्त्रार्थविद् भवेत्।
लक्ष्मीमनश्वरां प्राप्य भुक्त्वा भोगान् यथेप्सितान्॥१०॥
कीर्तिं कान्तिञ्च नैरुज्यं प्राप्यान्ते मोक्षमाप्नुयात्।
श्रीतारायाः प्रसादेन सर्वत्र शुभमश्नुते॥११॥

बीज मंत्र

हूँफट्

साधना विधि

स्रोत में इस स्तोत्र को नित्यपाठ द्वारा विद्या, बुद्धि, वैभव आदि देने वाला कहा गया है। फलश्रुति में भक्तिमान्, नियत और शुचि साधक के लिए प्रातः, मध्याह्न और सायंकाल पाठ का निर्देश मिलता है।

प्रयोग — कब और कहाँ

  • नीलसरस्वती स्तोत्र पाठ
  • ताराष्टक पाठ
  • तारा उपासना
  • नित्यपाठ
  • प्रातः मध्याह्न और सायंकाल पाठ

लाभ

  • विद्या
  • बुद्धि
  • वैभव
  • कविता
  • सर्वशास्त्रार्थ ज्ञान
  • लक्ष्मी प्राप्ति
  • कीर्ति और कान्ति
  • नैरुज्य
  • मोक्ष
  • सर्वत्र शुभ

मूल पाठ (तंत्र से उद्धरण)

रुद्रयामल में तारा-पंचांग, तारास्तोत्र आदि वर्णित हैं, जिनका पद्धतियों के रूप में स्वतन्त्र संकलन बहुधा हुआ है। नीलसरस्वती की प्रार्थना में सुप्रसिद्ध एक अष्टक हम यहां दे रहे हैं जो 'तारा-स्तोत्र' कहलाता है और नित्यपाठ द्वारा विद्या, बुद्धि, वैभव आदि देने में सफल माना जाता है। स्तोत्र इस प्रकार है-- (ख) श्रीनीलसरस्वती स्तोत्र मातर्नीलसरस्वति प्रणमतां सौभाग्य-सम्पत्प्रदे, प्रत्यालीढपदस्थिते शवहृदि स्मेराननाम्भोरुहे। फुल्लेन्दीवरलोचने त्रिनयने कर्त्री कपालोत्पले, खड्गञ्चादधती त्वमेव शरणं त्वामीश्वरीमाश्रये॥१॥ वाचामीश्वरि भक्तकल्पलतिके सर्वार्थसिद्धीश्वरि, गद्य-प्राकृत-पद्यजातरचनासर्वार्थसिद्धिप्रदे। नीलेन्दीवरलोचनत्रययुते कारुण्यवारांनिधे, सौभाग्यामृतवर्धनेन कृपया सिञ्च त्वमस्मादृशम्॥२॥ खर्वे गर्वसमूहपूरिततनौ सर्पादिवेषोज्ज्वले, व्याघ्रत्वक्परिवीतसुन्दरकटिव्याधूतघण्टाङ्किते। सद्यः कृत्तगलद्रजः परिमिलन्मुण्डद्वयी-मूर्धज- ग्रन्थिश्रेणि-नृमुण्डदामललिते भीमे भयं नाशय॥३॥ मायानङ्कुविकाररूपललना बिन्द्वर्धचन्द्रात्मिके, हूँ फट्कारमयि त्वमेव शरणं मन्त्रात्मिके मादृशः। मूर्तिस्ते जननि त्रिधामघटिता स्थूलातिसूक्ष्मा परा, वेदानां नहि गोचरा कथमपि प्राज्ञैर्नुतामाश्रये॥४॥ त्वत्पादाम्बुजसेवया सुकृतिनो गच्छन्ति सायुज्यतां, तस्याः श्रीपरमेश्वरत्रिनयनब्रह्मादिसाम्यात्मनः। संसाराम्बुधिमज्जनेऽपटुतनुर्देवेन्द्रमुख्यान् सुरान्, मातस्त्वत्पदसेवने हि विमुखान् किं मन्दधीः सेवते॥५॥ मातस्त्वत्पदपङ्कजद्वयरजो-मुद्राङ्ककोटीरिण- स्ते देवा जयसङ्करे विजयिनो निःशङ्कमङ्के गताः। देवोऽहं भुवने न मे सम इति स्पर्धां वहन्तः परा- स्तत्तुल्यां नियतं यथाशु चिरं नाशं व्रजन्ति स्वयम्॥६॥ त्वन्नामस्मरणात् पलायनपरा द्रष्टुं च शक्ता न ते, भूतप्रेतपिशाचराक्षसगणा यक्षाश्च नागाधिपाः। दैत्या दानवपुङ्गवाश्च खचरा व्याघ्रादिका जन्तवो, डाकिन्यः कुपितान्तकश्च मनुजो मातः क्षणं भूतले॥७॥ लक्ष्मीः सिद्धगणाश्च पादुकमुखाः सिद्धास्तथा वैरिणां, स्तम्भश्चापि वराङ्गने गजघटास्तम्भस्तथा मोहनम्। मातस्त्वत्पदसेवया खलु नृणां सिध्यन्ति ते ते गुणाः, क्लान्तः कान्तमनोज्ञ एव भवति क्षुद्रोऽपि वाचस्पतिः॥८॥ ताराष्टकमिदं पुण्यं भक्तिमान् यः पठेन्नरः, प्रातर्मध्याह्नकाले च सायाह्ने नियतः शुचिः॥९॥ लभते कवितां विद्यां सर्वशास्त्रार्थविद् भवेत्। लक्ष्मीमनश्वरां प्राप्य भुक्त्वा भोगान् यथेप्सितान्॥१०॥ कीर्तिं कान्तिञ्च नैरुज्यं प्राप्यान्ते मोक्षमाप्नुयात्। श्रीतारायाः प्रसादेन सर्वत्र शुभमश्नुते॥११॥

[object Object]