मन्त्रमय स्तोत्ररुद्रयामल तंत्रहिन्दी
स्वर्णाकर्षण भैरव मन्त्रमय स्तोत्र पाठ -रुद्रयामल तंत्र
श्रीदेवता✦ स्वर्णाकर्षण भैरव
स्वर्णाकर्षण भैरव साधनाभैरव स्तोत्रदारिद्र्य नाश स्तोत्रत्रिपुरा सिद्धान्त
तंत्र संदर्भ
इसी प्रकार एक महत्त्वपूर्ण स्तोत्र 'त्रिपुरा-सिद्धान्त' में इस प्रकार प्राप्त होता है। इसका निरन्तर विधिवत् पाठ करने से अवश्य लाभ मिलता है।
मूल मंत्र
स्वर्णाकर्षण-भैरव-मन्त्रमय स्तोत्र ब्रह्मा यस्य ऋषि स्वयं निगदितश्छन्दो मतं त्रैष्टुभं, स्वर्णाकर्षण-भैरवो हरिहरब्रह्मात्मको देवता। हीं बीजं शुभशक्तिरित्यभिहितं तस्यैव सूत्रात्मनः, स्तोत्रं ध्यानपुरस्सरं मनुमयं ब्रूमो वयं प्रत्यहम्॥१॥ मन्दारद्रुममूलपूजितमहामाणिक्य-सिंहासने, संविष्टो दरभिन्न चम्पकरुचा देव्या समालिङ्गितः। भक्तेभ्यो वररत्न पात्र भरितं स्वर्णं ददानोऽनिशं, स्वर्णाकर्षण-भैरवो विजयते स्वर्गापवर्गप्रदः॥२॥ ॐ ऐं क्लां क्लीं क्लूमिति व्याहरन् यो भक्तः स्वर्णाकर्षणम्। हीं कारुण्याब्धिः कल्पमूलाधिवासः स्वर्णाकर्षो भैरवो मेऽस्तु भूत्यै॥३॥ हां हीं हूं सः सन्ततं जापकानां, वर्षन्तं तं स्वर्णवृष्टिं समग्राम्। अन्तः स्वान्तं सूर्यकोटिप्रकाशं, स्वर्णाकर्षं भैरवं भावयामि॥४॥ मरकतमणिपात्रे सम्भृतं स्वर्णपूर्णं, कृपणतरजनेभ्यस्तारतः सम्प्रदातुः। कुरु हृदय सपर्यां सेवमानाय नित्यं, सुरवरमनुजेन्द्रस्यापदुद्धारणाय॥५॥ नमोऽजामलबद्धाय, ब्रह्मसूत्राधिवाससे। स्वर्णाकर्षण-शीलाय, साधकानां कृतात्मने॥६॥ लोकेश्वराद्यर्चित-पादुकाय, दारिद्र्यनिर्मूलनकारणाय। स्वर्णादि दानकरणोद्यत भैरवाय, कारुण्यवारांनिधये नमस्ते॥७॥ दीनानाथ विपन्नरक्षणपरे राज्यप्रतीक्षापरेः, सिद्धैः साध्यगणैः सुरासुरगणैर्भुक्तिप्रयुक्तात्मभिः। मूले कल्पतरोर्महामणिमये मार्तण्ड-तेजोजुषे, स्वर्णाकर्षणभैरवाय सततं कुर्मो नमस्यां वयम्॥८॥ स्वर्णाकर्षि-स्वर्णदेव्याधिताय, स्वर्णारूढोदार-सिंहासनाय। कुर्मो नित्यं स्वर्णदात्रे नमस्यां, दारिद्र्यद्वेषि श्रीमते भैरवाय॥९॥ स्वर्णप्रदानाध्वर-दीक्षिताय, स्वतेजसाक्रान्त-जगत्त्रयाय। औदार्य-सम्पत्-सदनाय नित्यं, ॐ श्रीमहाभैरव! ते नमोऽस्तु॥१०॥ चिन्तामणिस्थित-महानिधि-कामधेनु- मन्दारमूल-मणिमण्डप-मध्यगाय। स्वर्ण-प्रदान-निरताय सदा सपर्या कुर्मो यं त्रिकरणैः परभैरवाय॥११॥ मूले कल्पतरोः प्रभा-परिमले भद्रासने संस्थितो, हस्ताम्भोरुह-रत्नपात्रभरितैः कान्तेश्वर भास्वरः। निर्मूलीकृत-दुर्गतो विरचयन् विद्युद् दिनेशद्युतिः, स्वर्णाकर्षण-भैरवो भवतु नो दारिद्र्य-विद्वेषणः॥१२॥ दुग्धाद्याराध्य स्वर्णकृति कनकमये दीपवत्ये सुधाब्धौ, कापित्थे तत्र रम्ये मणिमयविलसद्भित्ति-पाश्चात्य भागे। यदत्तं सर्ववाञ्छाधिकवसुनिचयं मन्त्रिणां संसरन्तं, ध्यायेच्छ्रीभैरवं तं सकल-सुवसुवं दुःखदारिद्र्य शत्रुम्॥१३॥ सुवर्णमण्डपे ध्यायेत् सुवर्णरुचिभिर्युतम्। महात्मानं सुखासीनं प्रसन्नवरदायकम्॥१४॥ सर्व रत्न-विभूषाढ्यं सुरासुर-नमस्कृतम्। मणिहारक-सम्पूतिं ददतं स्वकरैः सदा॥१५॥ सुवर्णवृष्टिरूपेशं धनसारनिरन्तरम्। दारिद्र्य-नाम-संहारं-कुण्डलोल्लास-संयुतम्॥१६॥ एवं ध्यात्वा महात्मानं महादारिद्र्य-नाशनम्। स्तौमि मन्दार-मूलस्थं ब्रह्मसूत्राधिवासनम्॥१७॥ स्वर्णसिद्धिं करेरेव दानं स्वर्णभैरवम्। ऋणं न जायते तस्य धनं शीघ्रमवाप्नुयात्॥१८॥ स्वर्णादिमध्यमणिमण्डप कल्पवृक्ष, पीतारुणाम्बुजनिविष्टसुवर्णवर्णम्। माणिक्यपात्रसभयं दधतं च दोर्भ्यां स्वर्णदिक्षेणविनोदनिधिं नमामि॥१९॥ सुवर्णकर्षकं नित्यं ऋणहर्तारमैश्वरम्। भजतो न ऋणं तस्य धनं शीघ्रं प्रजायते॥२०॥ पीतवर्णं चतुर्बाहुं त्रिनेत्रं पीतवाससम्। अक्षय्यं स्वर्णमयं तडित्पूरित-पात्रकम्॥२१॥ अतितीक्ष्ण-महाशूलं तोमरं चामरद्वयम्। सततं चिन्तयेद् यस्तु भैरवं स्वर्णसिद्धिदम्॥२२॥ स्वर्णाकर्षणभैरव-मन्त्राद्यं स्तोत्रमुत्तमम्। पठतां निधिसिद्धिश्च स्वर्णसिद्धिश्च जायते॥२३॥ अनेन स्तवराजेन नित्यं ब्रह्महरीश्वराः। स्वर्णाकर्षणनामानि स्तुवन्ति जगदीश्वराः॥२४॥ यः पठेत् परमं स्तोत्रमिदं नित्यं नरोत्तमः। स मर्त्यो मन्दभाग्योऽपि भैरवस्य प्रसादतः॥२५॥ इच्छातोऽप्यधिकां लक्ष्मीं लभते नात्र संशयः। रससिद्धिर्भवेच्छीघ्रं निधीनामधिपो भवेत्॥२६॥ सर्वान् कामानवाप्नोति देवतैरपि दुर्लभम्। एतज्जपे महालक्ष्मीश्चञ्चलाप्यचला भवेत्॥२७॥ रत्नान्यश्वान् गजान् भूतिं लभते शीघ्रमेव हि। स्वर्णराशिमवाप्नोति चाक्षयां नात्र संशयः॥२८॥ धेनुं चिन्तामणिं कल्पद्रुमं शीघ्रमवाप्नुयात्। नित्यमष्टोत्तरशतं यो जपेत् स्तोत्रमुत्तमम्॥२९॥ मण्डलार्धाच्च प्रागेव स्वर्णराशिमनुत्तमाम्। सततं ध्यायते तस्मै दर्शयत्येव न संशयः॥३०॥ नित्यं च त्रिपुराभक्तेः स्वर्णाकर्षणभैरवः। यत्नेन सदोपास्थः सर्वकामप्रदायकः॥३१॥ [इति श्रीत्रिपुरासिद्धान्ते दक्षिणामूर्ति प्रोक्तं स्वर्णाकर्षणभैरवस्तोत्रं समाप्तम्।]
बीज मंत्र
हींॐऐंक्लांक्लींक्लूंहांहूंसः
साधना विधि
इस स्तोत्र का निरन्तर विधिवत् पाठ करने से लाभ बताया गया है। इस स्तोत्र के प्रतिदिन १०८ पाठ करने चाहियें। ४१ दिनों का मण्डल पूर्ण करने से अथवा २५ दिन से पूर्व ही स्वर्णादि प्राप्त हो जाते हैं। भगवती त्रिपुरा की उपासना से यह सर्वकामना पूर्ण करता है।
प्रयोग — कब और कहाँ
- स्वर्णाकर्षण
- दारिद्र्य नाश
- लक्ष्मी प्राप्ति
- ऋण निवारण
- भैरव स्तोत्र पाठ
लाभ
- लक्ष्मी प्राप्ति
- रससिद्धि
- निधि सिद्धि
- स्वर्णराशि प्राप्ति
- सर्वकामना पूर्ण