ॐ नमः शिवाय  |  जय श्री राम  |  हरे कृष्ण
स्वर्णाकर्षण भैरव स्तोत्ररुद्रयामल तंत्रहिन्दी

स्वर्णाकर्षण भैरव स्तोत्र दारिद्र्य नाश पाठ -रुद्रयामल तंत्र

श्रीदेवतास्वर्णाकर्षण भैरव-परमात्मा

स्वर्णाकर्षण भैरव साधनाभैरव स्तोत्रदारिद्र्य नाश स्तोत्ररुद्रयामल तंत्र

तंत्र संदर्भ

श्रीस्वर्णाकर्षण-भैरव-स्तोत्रम्। यह स्तोत्र 'रुद्रयामल' तन्त्र में ईश्वर और दत्तात्रेय के संवादरूप में कहा गया है।

मूल मंत्र

स्तोत्र-प्रारम्भिका

भगवन् प्रमथाधीशं शिवतुल्य-पराक्रम।
पूर्वमुक्तस्त्वया मन्त्रो भैरवस्य महात्मनः॥१॥
इदानीं श्रोतुमिच्छामि तस्य स्तोत्रमनुत्तमम्।
तत्केनोक्तं पुरा स्तोत्रं पठनात् तस्य किं फलम्॥२॥
तत्त्वं श्रोतुमिच्छामि ब्रूहि मे नन्दिकेश्वर।
नन्दिकेश्वर उवाच।
अयं प्रश्नो महाभाग! लोकानामुपकारकः॥३॥
स्तोत्रं बटुकनाथस्य दुर्लभं भुवनत्रये।
सर्वपाप-प्रशमनं सर्वसम्पत्-प्रदायकम्॥४॥
दारिद्र्यनाशनं पुंसामापदामपहारकम्।
अष्टैश्वर्यप्रदं नृणां पराजय-विनाशनम्॥५॥
महाकीर्तिप्रदं पुंसामसौन्दर्य-विनाशनम्।
स्वर्णाद्यष्ट-महासिद्धि-प्रदायकमनुत्तमम्॥६॥
भुक्तिमुक्तिप्रदं स्तोत्रं भैरवस्य महात्मनः।
महाभैरवभक्ताय सेविने निर्धनाय च॥७॥
निजभक्ताय वक्तव्यमन्यथा शापमाप्नुयात्।
स्तोत्रमेतद् भैरवस्य ब्रह्म-विष्णु-शिवात्मकम्॥८॥
शृणुष्व रचितो ब्रह्मन्! सर्वकाम-प्रदायकम्।

मूल-स्तोत्र-पाठः

नमस्ते भैरवाय ब्रह्मविष्णु-शिवात्मने।
नमस्त्रैलोक्यवन्द्याय वरदाय वरात्मने॥१॥
रत्नसिंहासनस्थाय दिव्याभरणशोभिने।
दिव्यमाल्य-विभूषाय नमस्ते दिव्यमूर्तये॥२॥
नमस्तेऽनेकहस्ताय अनेकशिरसे नमः।
नमस्तेऽनेकनेत्राय अनेकविभवे नमः॥३॥
नमस्तेऽनेककण्ठाय अनेकांशाय ते नमः।
नमस्तेऽनेकपार्श्वाय नमस्ते दिव्यतेजसे॥४॥
अनेकायुधयुक्ताय अनेकसुरसेविने।
अनेकगुणयुक्ताय महादेवाय ते नमः॥५॥
नमो दारिद्र्यकालाय महासम्पत्प्रदायिने।
श्रीभैरवी-संयुक्ताय त्रिलोकेशाय ते नमः॥६॥
दिगम्बर नमस्तुभ्यं दिव्याङ्गाय नमो नमः।
नमोऽस्तु दैत्यकालाय पापकालाय ते नमः॥७॥
सर्वज्ञाय नमस्तुभ्यं नमस्ते दिव्यचक्षुषे।
अजिताय नमस्तुभ्यं जितामित्राय ते नमः॥८॥
नमस्ते सद्रूपाय महावीराय ते नमः।
नमोऽस्त्वनन्तवीर्याय महाघोराय ते नमः॥९॥
नमस्ते घोरघोराय विश्वघोराय ते नमः।
नमः उग्राय शान्ताय भक्तानां शान्तिदायिने॥१०॥
गुरवे सर्वलोकानां नमः प्रणवरूपिणे।
नमस्ते वाग्भवार्याय दीर्घकामाय ते नमः॥११॥
नमस्ते कामराजाय योषित्कामाय ते नमः।
दीर्घमायास्वरूपाय महामायाय ते नमः॥१२॥
सृष्टिमाया-स्वरूपाय विसर्गसमयाय ते।
सुरलोक-सुपूज्याय आपदुद्धारणाय च॥१३॥
नमो नमो भैरवाय महादारिद्र्यनाशिने।
उन्मूलने कर्मठाय अलक्ष्म्याः सर्वदा नमः॥१४॥
नमोऽजामलबद्धाय नमो लोकेश्वराय ते।
स्वर्णाकर्षणशीलाय भैरवाय नमो नमः॥१५॥
मम दारिद्र्यविद्वेषणाय लक्ष्याय ते नमः।
नमो लोकत्रयेशाय स्वानन्द-निहिताय ते॥१६॥
नमः श्रीबीजरूपाय सर्वकामप्रदायिने।
नमो महाभैरवाय श्रीभैरव नमो नमः॥१७॥
धनाध्यक्ष नमस्तुभ्यं शरण्याय नमो नमः।
नमः प्रसन्नरूपाय आदिदेवाय ते नमः॥१८॥
नमस्ते मन्त्ररूपाय नमस्ते रत्नरूपिणे।
नमस्ते स्वर्णरूपाय सुवर्णाय नमो नमः॥१९॥
नमः सुवर्णवर्णाय महापुण्याय ते नमः।
नमो शुद्धाय बुद्धाय नमः संसारतारिणे॥२०॥
नमो देवाय गुह्याय प्रचलाय नमो नमः।
नमस्ते बालरूपाय परेषां बलनाशिने॥२१॥
नमस्ते स्वर्णसंस्थाय नमो भूतलवासिने।
नमः पातालवासाय अनाधाराय ते नमः॥२२॥
नमो नमस्ते शान्ताय अनन्ताय नमो नमः।
द्विभुजाय नमस्तुभ्यं भुजत्रयसुशोभिने॥२३॥
नमोऽणिमादि-सिद्धाय स्वर्णहस्ताय ते नमः।
पूर्णचन्द्रप्रतीकाशवदनाम्भोज-शोभिने॥२४॥
नमस्तेऽस्तु स्वरूपाय स्वर्णालङ्कारशोभिने।
नमः स्वर्णाकर्षणाय स्वर्णाभाय नमो नमः॥२५॥
नमस्ते स्वर्णकण्ठाय स्वर्णाभाम्बरधारिणे।
स्वर्णसिंहासनस्थाय स्वर्णपादाय ते नमः॥२६॥
नमः स्वर्णाभिपादाय स्वर्णकाञ्चीध्रुशोभिने।
नमस्ते स्वर्णजङ्घाय भक्तकामदुघात्मने॥२७॥
चिन्तामणिस्वरूपाय नमो ब्रह्मादि-सेविने॥२८॥
कल्पद्रुमाधःसंस्थाय बहुस्वर्ण-प्रदायिने।
नमो हेमाकर्षणाय भैरवाय नमो नमः॥२९॥
स्तवेनानेन सन्तुष्टो भव लोकेश भैरव।
पश्य मां करुणादृष्ट्या शरणागतवत्सल॥३०॥

फलश्रुतिः

श्रीमहाभैरवस्येदं स्तोत्रमुक्तं सुदुर्लभम्।
मन्त्रात्मकं महापुण्यं सर्वैश्वर्य-प्रदायकम्॥३१॥
यः पठेन्नित्यमेकाग्रं पातकैः स प्रमुच्यते।
लभते महतीं लक्ष्मीमष्टैश्वर्यं समवाप्नुयात्॥३२॥
चिन्तामणिमवाप्नोति धेनुं कल्पतरुं ध्रुवम्।
स्वर्णराशिमवाप्नोति शीघ्रमेव स मानवः॥३३॥
त्रिसन्ध्यं यः पठेत् स्तोत्रं दशावृत्या नरोत्तमः।
स्वप्ने भैरवस्तस्य साक्षाद् भूत्वा जगद्गुरुः॥३४॥
स्वर्णराशिं ददात्यस्मै तत्क्षणं नास्ति संशयः।
अष्टावृत्या पठेद् यस्तु सन्ध्यायां वा नरोत्तमः॥३५॥
लभते सकलान् कामान् सप्ताहान्नात्र संशयः।
सर्वदा यः पठेत् स्तोत्रं भैरवस्य महात्मनः॥३६॥
लोकत्रयं वशीकुर्यादचलां श्रियमाप्नुयात्।
न भयं विद्यते क्वापि विषभूतादि-सम्भवम्॥३७॥
श्रियन्ते शत्रवस्तस्य ह्यलक्ष्मी नाशमाप्नुयात्।
अक्षयं लभते सौख्यं सर्वदा मानवोत्तमः॥३८॥
अष्टपञ्चाशद् वर्ण्यो मन्त्रराजः प्रकीर्तितः।
दारिद्र्यदुःखशमनः स्वर्णाकर्षण-कारकः॥३९॥
य एनं सञ्जपेद् धीमान् स्तोत्रं वा प्रपठेत् सदा।
महाभैरव-सायुज्यं सोऽन्तकाले लभेद् ध्रुवम्॥४०॥

[इति श्रीरुद्रयामले तन्त्रे ईश्वर-दत्तात्रेयसंवादे ‘स्वर्णाकर्षण-भैरवस्तोत्रं सम्पूर्णम्।’]

बीज मंत्र

ह्लींक्लीं

विनियोग

ॐ अस्य श्रीस्वर्णाकर्षणभैरव-स्तोत्रमन्त्रस्य ब्रह्मा ऋषिः अनुष्टुप्छन्दः स्वर्णाकर्षणभैरव-परमात्मा देवता ह्लीं बीजं क्लीं शक्तिः सः कीलकं मम सर्वकाम-सिद्ध्यर्थ पाठे विनियोगः।

न्यास

ऋष्यादिन्यास— ब्रह्मर्षये नमः (शिरसि), अनुष्टुप्छन्दसे नमः (मुखे), स्वर्णाकर्षण-भैरवपरमात्मने नमः (हृदये), ह्लीं बीजाय नमः (गुह्ये), क्लीं शक्तये नमः (पादयोः), सः कीलकाय नमः (नाभौ), विनियोगाय नमः (सर्वाङ्गे)।

कर-हृदयादिन्यास— हां—अंगुष्ठाभ्यां नमः। हृदयाय नमः। हीं—तर्जनीभ्यां नमः। शिरसे स्वाहा। हूं—मध्यमाभ्यां नमः। शिखायै वषट्। हैं—अनामिकाभ्यां नमः। कवचाय हुम्। हौं—कनिष्ठिकाभ्यां नमः। नेत्रत्रयाय वौषट्। हः—करतल-करपृष्ठाभ्यां नमः। अस्त्राय फट्।

ध्यान

ध्यानम्— पारिजातद्रुमान्तारे, स्थिते माणिक्य-मण्डपे। सिंहासनगतं वन्दे, भैरवं स्वर्णदायकम्॥ गाङ्गेयपात्रं डमरुं त्रिशूलं, वरं करैः संदधतं त्रिनेत्रम्। देव्या युतं तप्तसुवर्णवर्णं, स्वर्णाकर्षं भैरवमाश्रयामि॥

मुद्रा

मुद्रा—कमण्डलु-डमरु-त्रिशूल-वर-मुद्रा दर्शयेत्।

साधना विधि

इस स्तोत्र का विनियोग, ऋष्यादिन्यास, करन्यास, हृदयादिन्यास, ध्यान और मुद्रा प्रदर्शन करके भक्तिपूर्वक पाठ करना चाहिए।

प्रयोग — कब और कहाँ

  • स्वर्णाकर्षण भैरव स्तोत्र पाठ
  • दारिद्र्य नाश
  • अलक्ष्मी नाश
  • अष्टैश्वर्य प्राप्ति
  • सर्वकाम सिद्धि

लाभ

  • सर्वपाप-प्रशमन
  • सर्वसम्पत्-प्रदायक
  • दारिद्र्यनाशन
  • अष्टैश्वर्यप्रद
  • स्वर्णाकर्षण-कारक