भगवान नरसिंह
202 मंत्रॐ जङ्घे पातु धराभारहर्ता योऽसौ नृकेसरी
ॐ वासुदेवाय वन्द्याय नमः
वागीशा यस्य वदने लक्ष्मीर्यस्य च वक्षसि। यस्यास्ते हृदये संवित् तं नृसिंहमहं भजे॥
ॐ गुह्यं मे पातु गुह्यानां मन्त्राणां गुह्यरूपधृक्
ॐ विभवे नमः
ॐ वज्रनखाय विद्महे तीक्ष्णदंष्ट्राय धीमहि। तन्नो नारसिंहः प्रचोदयात्॥
ॐ नृसिंहः पातु वायव्यां सौम्यं भूषणविग्रहः
ॐ नृं नृं नृं नरसिंहाय नमः
ॐ ईशाय नमः
ॐ वक्त्रं पात्विन्दुवदनं सदा प्रह्लादवन्दितः
ॐ मध्यं पातु हिरण्याक्ष-वक्षःकुक्षिविदारणः
ॐ अधोक्षजाय नमः
ॐ क्ष्रौम् भगवते नरसिंहाय नमः
ॐ सुरराज्यप्रदः पातु पादौ मे नृहरीश्वरः
ॐ पावन नरसिंहाय नमः
ॐ महाविष्णुर्-दक्षिणे तु महाज्वालस्तु नैरृतौ
ॐ नमो भगवते नरसिंहाय नमस्तेजस्तेजसे आविराविर्भव वज्रनख वज्रदंष्ट्र कर्माशयान् रन्धय रन्धय तमो ग्रस ग्रस ॐ स्वाहा। अभयमभयमात्मनि भूयिष्ठा ॐ क्ष्रौम्॥
ॐ संसारभयतः पातु मृत्योर्मृत्युर्-नृकेसरी
ॐ मालोल नरसिंहाय नमः
ॐ वज्रदेहाय वज्राय नमः
ॐ नृसिंहो मे शिरः पातु लोकरक्षार्थसंभवः
ॐ सर्वेश्वराय नमः
वृत्तोत्फुल्लविशालाक्षं विपक्षक्षयदीक्षितम्। निनादत्रस्तविश्वाण्डं विष्णुमुग्रं नमाम्यहम्॥
ॐ अच्युताय नमः
ॐ स्कन्धौ मे पातु भद्रोऽसौ स्कन्ध-भुजायुधः
ॐ नाभिं मे पातु नरहरिः स्वनाभिब्रह्मसंस्तुतः
ॐ अक्षराय नमः
ॐ नमः कालाय काल द्रष्ट्राय कराल वदनाय च
ॐ ब्रह्माण्डकोटयः कट्यां यस्यासौ पातु मे कटिम्
ॐ क्षत्रवट नरसिंहाय नमः
ॐ ऊरू मनोभवः पातु जानुनी नररूपधृक्
ॐ श्रीं ह्रीं जय लक्ष्मी प्रियाय नित्य प्रमुदित चेतसे लक्ष्मी स्रितार्थ देहाय श्रीं ह्रीं नमः
ॐ सहस्रशीर्षा पुरुषः पातु मे सर्वशस्तनुम्
ॐ उग्र (अहोबिल) नरसिंहाय नमः
ॐ पश्चिमे पातु सर्वेशो दिशि मे सर्वतोमुखः
इतो नृसिंहः परतो नृसिंहो यतो यतो यामि ततो नृसिंहः। बहिर्नृसिंहो हृदये नृसिंहो नृसिंहमादिं शरणं प्रपद्ये॥
ॐ महोग्रः पूर्वतः पातु महावीराग्रजोऽग्नितः
ॐ उग्रं वीरं महाविष्णुं ज्वलन्तं सर्वतोमुखम्। नृसिंहं भीषणं भद्रं मृत्युमृत्युं नमाम्यहम्॥
ॐ ईशान्यां पातु भद्रो मे सर्वमंगलदायकः
दुर्गेष्वटव्याजिमुखादिषु प्रभुः पायान्नृसिंहोऽसुरयूथपारिः। विमुञ्चतो यस्य महाट्टहासं दिशो विनेदुर्न्यपतंश्च गर्भाः॥
ॐ वज्रनखाय वज्रिणे नमः
ॐ योगानन्द नरसिंहाय नमः
ॐ नमो वज्रनखाय च
तव करकमलवरे नखमद्भुतशृंगं दलितहिरण्यकशिपुतनुभृंगम्। केशव धृतनरहरिरूप जय जगदीश हरे॥
ॐ शिंशुमाराय नमः
ॐ सहस्रार ज्वालावर्तिने क्ष्रौम् हन हन हुं फट् स्वाहा
ॐ त्रिलोकात्मने नमः
ॐ सर्वविद्याधिपः पातु नृसिंहो रसनां मम
ॐ भैरवाडम्बराय नमः
ॐ क्रोड (वराह) नरसिंहाय नमः
ॐ दिव्याय नमः
ॐ कण्ठं मे पातु नृहरिर्भूभृदनन्तकोटनः
ॐ कविमाधवाय नमः
ॐ नमो भगवते महोग्र दिग्बन्धन नरसिंहाय ज्वालामुखाय अग्निनेत्राय... हन हन दह दह पच पच बन्ध बन्ध कील कील स्वाहा
ॐ हृदयं योगिसाध्यश्च निवासं पातु मे हरिः
ॐ भार्गव नरसिंहाय नमः
ॐ ज्वाला नरसिंहाय नमः
ॐ करञ्ज नरसिंहाय नमः
ॐ वेदवेदान्तयज्ञेशं ब्रह्मरुद्रादिवन्दितम्। श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये॥
ॐ करौ मे देववरदो नृसिंहः पातु सर्वतः