धन एवं ऐश्वर्य की देवी
229 मंत्रॐ संसारार्णवतारिण्यै नमः
ॐ अनुग्रहायै नमः
ॐ क्षमायै नमः
ॐ अनघायै नमः
ॐ अशोकायै नमः
ॐ लोकशोकविनाशिन्यै नमः
ॐ करुणायै नमः
ॐ प्रसादाभिमुख्यै नमः
ॐ शिवकर्यै नमः
ॐ विमलायै नमः
ॐ दारिद्र्यनाशिन्यै नमः
ॐ शान्तायै नमः
ॐ दारिद्र्यध्वंसिन्यै नमः
ॐ सर्वोपद्रववारिण्यै नमः
ॐ जनरञ्जिन्यै नमः
ॐ सुरभ्यै नमः
ॐ सुप्रसन्नायै नमः
ॐ नवदुर्गायै नमः
ॐ महाकाल्यै नमः
ॐ रमायै नमः
ॐ विष्णुवक्षःस्थलस्थितायै नमः
ॐ नारायणसमाश्रितायै नमः
ॐ नन्दिन्यै नमः
ॐ महाकन्यायै नमः
ॐ सरस्वत्यै नमः
ॐ कात्यायन्यै नमः
ॐ कपिलायै नमः
ॐ ब्रह्मविष्णुशिवात्मिकायै नमः
ॐ मङ्गलायै नमः
ॐ विभावर्यै नमः
ॐ पद्मोद्भवायै नमः
ॐ पद्ममालाधरायै नमः
ॐ पद्मालयायै नमः
ॐ पद्ममुख्यै नमः
ॐ पद्मनाभप्रियायै नमः
ॐ पद्मिन्यै नमः
ॐ पद्मगन्धिन्यै नमः
ॐ वसुधारिण्यै नमः
ॐ धनधान्यकर्यै नमः
ॐ सिद्धयै नमः
ॐ नृपवेश्मगतानन्दायै नमः
ॐ वरलक्ष्म्यै नमः
ॐ वसुप्रदायै नमः
ॐ हिरण्यप्राकारायै नमः
ॐ देव्यै नमः
ॐ सर्वैश्वर्यप्रदायिन्यै नमः
ॐ विभूत्यै नमः
ॐ हिरण्मय्यै नमः
ॐ नित्यपुष्टायै नमः
ॐ दीप्तायै नमः
ॐ प्रभायै नमः
ॐ चन्द्रवदनायै नमः
ॐ चन्द्रसहोदर्यै नमः
ॐ इन्दिरायै नमः
ॐ भास्कर्यै नमः
ॐ वसुन्धरायै नमः
ॐ हेममालिन्यै नमः
ॐ ज्योतिष्मत्यै नमः
ॐ सर्वमन्त्रफलप्रदायै नमः
ॐ श्रियै नमः
ॐ बिल्वनिलयायै नमः
ॐ यशस्विन्यै नमः
ॐ उदाराङ्गायै नमः
ॐ हरिण्यै नमः
ॐ स्त्रैणसौम्यायै नमः
ॐ शुभप्रदायै नमः
ॐ शुभायै नमः
ॐ समुद्रतनयायै नमः
ॐ जयायै नमः
ॐ विष्णुपत्न्यै नमः
ॐ प्रसन्नाक्ष्यै नमः
ॐ महालक्ष्म्यै नमः
ॐ महामायायै नमः
ॐ शुक्लमाल्याम्बरायै नमः
ॐ महाविद्यायै नमः
ॐ गुह्यविद्यायै नमः
ॐ अमोघायै नमः
ॐ ब्रह्माण्डमोहिन्यै नमः
ॐ त्रैलोक्यकुटुम्बिन्यै नमः
ॐ रत्नगर्भायै नमः
ॐ दयासुदृष्ट्यै नमः
ॐ सुवर्णदृष्ट्यै नमः
ॐ प्रत्यक्षलक्ष्म्यै नमः
ॐ क्षीरसागरवासिन्यै नमः
ॐ वैकुण्ठनगरवासिन्यै नमः
ॐ सर्वराजगृहेस्थितायै नमः
ॐ अखण्डश्रियै नमः
ॐ कान्तायै नमः
ॐ शिवायै नमः
ॐ अमृतोद्भवायै नमः
ॐ लोकसुन्दर्यै नमः
ॐ वैष्णव्यै नमः
ॐ देवदेविकायै नमः
ॐ श्रीहरिप्रियायै नमः
ॐ शुचये नमः
ॐ स्वाहायै नमः
ॐ स्वधायै नमः
ॐ सुधायै नमः
ॐ धन्यायै नमः
ॐ अदित्यै नमः
ॐ दित्ये नमः
ॐ पद्मसुन्दर्यै नमः
ॐ कामाक्ष्यै नमः
ॐ अमृतायै नमः
ॐ धर्मनिलयायै नमः
ॐ पुण्यगन्धायै नमः
ॐ चन्द्रायै नमः
ॐ चतुर्भुजायै नमः
ॐ चन्द्ररूपायै नमः
ॐ इन्दुशीतलायै नमः
ॐ आह्लादजनन्यै नमः
ॐ पुष्ट्यै नमः
ॐ सत्यै नमः
ॐ तुष्ट्यै नमः
ॐ प्रीतिपुष्करिण्यै नमः
ॐ ह्रीं श्रीं क्लीं महालक्ष्मि मम गृहे धनं पूरय पूरय स्वाहा।
ॐ श्रीं ह्रीं क्लीं त्रिभुवन महालक्ष्म्यै अस्माकं दारिद्र्य नाशय प्रचुर धन देहि देहि क्लीं ह्रीं श्रीं ॐ।
ॐ ह्रीं श्रीं क्रीं श्रीं क्रीं क्लीं श्रीं महालक्ष्मी मम गृहे धनं पूरय पूरय चिंतायै दूरय दूरय स्वाहा।
ॐ सर्वाबाधा विनिर्मुक्तो, धन धान्यः सुतान्वितः। मनुष्यो मत्प्रसादेन भविष्यति न संशयः ॐ।
ॐ श्री महालक्ष्म्यै च विद्महे विष्णु पत्न्यै च धीमहि तन्नो लक्ष्मी प्रचोदयात् ॐ।
ॐ ऐं ह्रीं श्रीं ज्येष्ठ लक्ष्मी स्वयम्भुवे ह्रीं ज्येष्ठायै नमः।
ॐ ह्रीं क्लीं महालक्ष्म्यै नमः।
ॐ ह्रीं क्ष्रौं श्रीं लक्ष्मी नृसिंहाय नमः।
ॐ श्रीं ह्रीं क्लीं श्रीं सिद्ध लक्ष्म्यै नमः।
ॐ ऐं ह्रीं श्रीं क्लीं हसौः जगत्प्रसूत्यै नमः।
ॐ श्रीं श्रियें नमः।
राजमातां राजलक्ष्मीं राजेष्टफलदायिनीम्। प्रत्यङ्गिरां नमस्यामि सिद्धिलक्ष्मीजयप्रदां॥
ॐ ह्रीं क्लीं महालक्ष्म्यै नमः।
ॐ श्रीं क्लीं महालक्ष्म्यै महालक्ष्म्यै एह्येहि सर्वसौभाग्यं देहि मे स्वाहा।
ॐ ह्रीं श्रीं क्लीं महालक्ष्मि महालक्ष्मि एहि एहि सर्वसौभाग्यं देहि मे स्वाहा।
ॐ ह्रीं श्रीं क्लीं ऐं सौं ॐ ह्रीं क ए ई ल ह्रीं ह स क ह ल ह्रीं सकल ह्रीं सौं ऐं क्लीं ह्रीं श्रीं ॐ।
ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद सर्वसौभाग्यं देहि देहि स्वाहा।
ॐ श्रीं ह्रीं श्रीं आद्य लक्ष्म्यै नमः।
ॐ श्रीं ह्रीं क्लीं धन लक्ष्म्यै नमः।
ॐ श्रीं ह्रीं क्लीं धान्य लक्ष्म्यै नमः।
ॐ श्रीं ह्रीं क्लीं गज लक्ष्म्यै नमः।
ॐ ऐं ह्रीं श्रीं संतान लक्ष्म्यै नमः।
ॐ ह्रीं श्रीं वीर लक्ष्म्यै नमः।
ॐ क्लीं ॐ श्रीं विजय लक्ष्म्यै नमः।
ॐ ऐं ॐ श्रीं विद्या लक्ष्म्यै नमः।
ॐ तारिकायै नमः / ॐ ह्रीं
या या मनसि वै यस्य विभूतिः प्रतिभाति च। तां तां ददाति तस्याशु धनधान्यगवादिकाम्॥
सुवर्णवेष्टितं चाङ्गे लक्ष्मीमन्त्रं शतक्रतो। तस्यायुषो भवेद् वृद्धिः सर्वत्र विजयी महान्॥
ॐ कीर्त्यै नमः।
आपः सृजन्तु स्निग्धानि चिक्लीत वस मे गृहे। नि च देवीं मातरं श्रियं वासय मे कुले॥
तां म आवह जातवेदो लक्ष्मीमनपगामिनीम्। यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम्॥
कर्दमेन प्रजाभूता मयि सम्भव कर्दम। श्रियं वासय मे कुले मातरं पद्ममालिनीम्॥
तां म आवह जातवेदो लक्ष्मीमनपगामिनीम्। यस्यां हिरण्यं प्रभूतं गावो दास्योऽश्वान् विन्देयं पूरुषानहम्॥
यः शुचिः प्रयतो भूत्वा जुहुयादाज्यमन्वहम्। सूक्तं पञ्चदशर्चं च श्रीकामः सततं जपेत्॥
ॐ वाङ्मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठितम् आविरावीर्म एधि॥
वेदस्य म आणीस्थः श्रुतं मे मा प्रहासीरनेनाधीतेनाहोरात्रान्सन्दधाम्यृतं वदिष्यामि सत्यं वदिष्यामि॥
तन्मामवतु तद्वक्तारमवतु अवतु मामवतु वक्तारमवतु वक्तारम्॥ ॐ शान्तिः शान्तिः शान्तिः॥
अश्वपूर्वां रथमध्यां हस्तिनादप्रबोधिनीम्। श्रियं देवीमुपह्वये श्रीर्मा देवीर्जुषताम्॥
कांसोस्मितां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम्। पद्मे स्थितां पद्मवर्णां तामिहोपह्वये श्रियम्॥
चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदाराम्। तां पद्मिनीमीं शरणमहं प्रपद्येऽलक्ष्मीर्मे नश्यतां त्वां वृणे॥
आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्वः। तस्य फलानि तपसानुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मीः॥
उपैतु मां देवसखः कीर्तिश्च मणिना सह। प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिमृद्धिं ददातु मे॥
क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम्। अभूतिमसमृद्धिं च सर्वां निर्णुद मे गृहात्॥
ॐ जयायै नमः।
आर्द्रां पुष्करिणीं पुष्टिं पिङ्गलां पद्ममालिनीम्। चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह॥
आर्द्रां यः करिणीं यष्टिं सुवर्णां हेममालिनीम्। सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो म आवह॥
गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम्। ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम्॥
मनसः काममाकूतिं वाचः सत्यमशीमहि। पशूनां रूपमन्नस्य मयि श्रीः श्रयतां यशः॥
ॐ श्रीं नमः। (अथवा 'श्रीं')
ॐ स्ह्क्ल्रीं हं नमः।
ॐ श्रीं क्लीं श्रीं नमः।
ॐ ऐं श्रीं ह्रीं क्लीं नमः।
ॐ श्रीं क्लीं श्रीं नमः॥
ॐ ह्रीं हूं हां ग्रें क्षों क्रों नमः॥
ॐ नमः कमलवासिन्यै स्वाहा॥
ॐ ऐं ह्रीं श्रीं क्लीं सौ: जगत्प्रसूत्यै नमः।
ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद ॐ श्रीं ह्रीं श्रीं महालक्ष्म्यै नमः॥
ॐ स्वप्रकाशस्वरूपिण्यै नमः
ॐ देवदेविकायै नमः
ॐ लक्ष्म्यै नमः
ॐ श्रीहरिप्रियायै नमः
द्वादशैतानि नामानि त्रिसंध्यं यः पठेन्नरः। आयुरारोग्यमैश्वर्यं तस्य पुण्यफलप्रदम्॥
ॐ ह्रीं श्रीं क्लीं वैभवलक्ष्म्यै नमः।
या रक्ताम्बुजवासिनी विलासिनी चण्डांशुतेजस्विनी, या रक्ता रुधिराम्बरा हरिसखी या श्री मनोल्हादिनी।
ॐ ह्रीं श्रीं क्लीं ऐं मनसा देव्यै स्वाहा।
ॐ ह्रीं राधिकायै नमः / ॐ राधायै स्वाहा।
ॐ वाचे नमः
ॐ विश्वजनन्यै नमः
ॐ लोकमात्रे नमः
ॐ त्रिकालज्ञानसम्पन्नायै नमः
ॐ नित्यगतायै नमः
ॐ अनन्तनित्यायै नमः
ॐ शार्ङ्गिण्यै नमः
ॐ कीलिकायै नमः
ॐ प्राणशक्त्यै नमः
ॐ प्रकृत्यै नमः
ॐ विकृत्यै नमः
ॐ विद्यायै नमः
ॐ सर्वभूतहितप्रदायै नमः
ॐ श्रद्धायै नमः
ॐ परमात्मिकायै नमः
ॐ पद्मायै नमः
ॐ कमलोद्भवायै नमः
ॐ पद्मप्रियायै नमः
ॐ पद्महस्तायै नमः
ॐ पद्माक्ष्यै नमः
लक्ष्मीर्हरिप्रिया पद्मा एतन्नामत्रयं स्मरन्। सर्वान्कामानवाप्नोति सत्यं सत्यं हि पद्मज॥
ॐ मायायै नमः।
ॐ विष्णुपत्न्यै नमः ॐ प्रसन्नाक्ष्यै नमः ॐ नारायणसमाश्रितायै नमः।
ॐ दारिद्र्यध्वंसिन्यै नमः ॐ देवलक्ष्म्यै नमः ॐ सर्वोपद्रवनिवारिण्यै नमः।
ॐ नवदुर्गायै नमः ॐ महाकाल्यै नमः ॐ ब्रह्माविष्णुशिवात्मिकायै नमः।
ॐ त्रिकालज्ञानसम्पन्नायै नमः ॐ भुवनेश्वर्यै नमः।
ॐ श्रीमन्मन्दकटाक्षलब्धविभवब्रह्मेन्द्रगङ्गाधरां, त्वां त्रैलोक्यकुटुम्बिनीं सरसिजां वन्दे मुकुन्दप्रियाम्॥
अङ्गं हरेः पुलकभूषणमाश्रयन्ती भृङ्गाङ्गनेव मुकुलाभरणं तमालम्। अङ्गीकृताखिलविभूतिरपाङ्गलीला माङ्गल्यदास्तु मम मङ्गलदेवतायाः॥
दिग्घस्तिभिः कनककुम्भमुखावसृष्ट स्वर्वाहिनी विमलचारुजलप्लुताङ्गीम्। प्रातर्नमामि जगतां जननीमशेष लोकाधिनाथगृहिणीममृताब्धिपुत्रीम्॥
कमले कमलाक्षवल्लभे त्वं करुणापूरतरङ्गितैरपाङ्गैः। अवलोकय मामकिञ्चनानां प्रथमं पात्रमकृत्रिमं दयायाः॥
स्तुवन्ति ये स्तुतिभिरमीभिरन्वहं त्रयीमयीं त्रिभुवनमातरं रमाम्। गुणाधिका गुरुतरभाग्यभागिनो भवन्ति ते भुवि बुधभाविताशयाः॥
ॐ शिरो मे विष्णुपत्नी च ललाटं अमृतोद्भवा। चक्षुषी सुविशालाक्षी श्रवणे सागरम्बुजा॥
घ्राणं पातु महालक्ष्मीः कण्ठं पातु सरस्वती। भुजौ तु पातु वरदा हृदय पातु सुन्दरी॥
य इदं कवचं श्रीदं पठेद्विष्णुप्रियात्मकम्। त्रैलोक्यं विजितं तेन येन वा धारितं भवेत्॥
ॐ हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम्। चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह॥
वसुन्धरे श्री वसुधे वसुदोग्ध्रे कृपामयि! त्वत्कुक्षिगतं सर्वस्वं शीघ्रं मे त्वं प्रदर्शय॥
विष्णुप्रिये! रत्नगर्भे! समस्तफलदे शिवे! त्वद्गर्भगतहेमादीन् सम्प्रदर्शय दर्शय॥
अत्रोपविश्य लक्ष्मि! त्वं स्थिरा भव हिरण्मयि! सुस्थिरा भव सुप्रीत्या प्रसन्नवरदा भव॥
समागच्छ महालक्ष्मि! धन्यधान्यसमन्विते! प्रसीद पुरतः स्थित्वा प्रणतं मां विलोकय॥
दयासुदृष्टिं कुरुतां मयि श्रीः! सुवर्णदृष्टिं कुरु मे गृहे श्रीः॥
ॐ ईश्वर्यै (श्रियै) नमः
ॐ अमृतोद्भवायै नमः
ॐ कमलायै नमः
ॐ लोकसुन्दर्यै नमः
ॐ विष्णुपत्न्यै नमः
ॐ वैष्णव्यै नमः
ॐ वरारोहायै नमः
ॐ हरिवल्लभायै नमः